Saturday, June 12, 2021

SrimadbhAgavatam in support of Advaita, Dvaita and VishishtAdvaita

Namaste,

SrimadbhAgavatam is very well known as a Vaishnava purANa. 

Vaishnavas in general do not subscribe to the Advaita philosophy which teaches the oneness of jIvAtma with paramAtma or Brahman and the world of variety as mithya or illusion. 

But there are many slokas in the supposedly vaishnava purANa of SrimadbhAgavatam, that directly or indirectly supports Advaita. Probably that is the reason why majority of commentaries on this purAna are from Advaita AchAryAs.

Here is a humble attempt to compile slokas from SrimadbhAgavatam that implicitly or explicitly supports Advaita:

व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः ।

निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ 3-24-42 ॥

मन्यमान इदं विश्वं मायारचितमात्मनि ।
अविद्यारचितस्वप्न गन्धर्वनगरोपमम् ॥ 4-12-15 ॥ 

सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक्
पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः || 7-13-5 ||

यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः ।
 नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ 9-18-49 ॥

तद्ब्रह्म परमं सूक्ष्मं चिन्मात्रं सदनन्तकम्
विज्ञायात्मतया धीरः संसारात्परिमुच्यते ||10-88-10||

 भयं द्वितीयाभिनिवेशतः स्यात्
     ईशात् अपेतस्य विपर्ययोऽस्मृतिः ।
 तन्माययातो बुध आभजेत्तं
     भक्त्यैकयेशं गुरुदेवतात्मा ॥ 11-2-37 ॥
 अविद्यमानोऽप्यवभाति हि द्वयोः
     ध्यातुर्धिया स्वप्नमनोरथौ यथा ।
 तत्कर्मसङ्कल्पविकल्पकं मनो
     बुधो निरुंध्याद् अभयं ततः स्यात् ॥ 11-2-38 ॥

श्रीभगवानुवाच
( अनुष्टुप् )
बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः
गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ||11-11-1||
शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया
स्वप्नो यथात्मनः ख्यातिः संसृतिर्न तु वास्तवी ||11-11-2||

आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः
योऽविद्यया युक्स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ||11-11-7||

वैशारद्येक्षयासङ्ग शितया छिन्नसंशयः
प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ||11-11-12||

 विविक्तक्षेमशरणो मद्‍भावविमलाशयः ।
 आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ 11-18-21 ॥
 अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।
 बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ 11-18-22 ॥

यदेतदात्मनि जगन् मनो-वाक्-प्राण-संहतम् ।
 सर्वं मायेति तर्केण स्वस्थः त्यक्त्वा न तत्स्मरेत् ॥ 11-18-27 ॥

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।
 यथेदमुदपात्रेषु भूतान्येकात्मकानि च ॥ 11-18-32 ॥

पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि
तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ||11-22-11||

स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।
 यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ 12-5-4 ॥
 घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ 12-5-5 ॥

सर्ववेदान्तसारं यद् ब्रह्मात्मैकत्वलक्षणम् ।
 वस्तु अद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ 12-13-12 ॥

The following supports both Advaita and V.Advaita:

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।
 भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ 10-14-56 ॥

एक एव परो ह्यात्मा सर्वेषामपि देहिनाम्
नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः |10-55-44|

यस् आत्मकमिदं विश्वं क्रतवश्च यदात्मकाः ।

अग्निराहुतयो मंत्राः साङ्ख्यं योगश्च यत्परः ॥ 10-74-20 ॥


 एक एवाद्‌वितीयोऽसौ अवैतदात्म्यमिदं जगत् ।
 आत्मनात्माश्रयः सभ्याः सृजत्यवति हन्त्यजः ॥ 10-74-21 ॥

आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः
आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते ||10-85-34||
खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्
आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि ||10-85-35||

परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।

वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ 4-28-42 ॥ 

तस्माद्युक्तेन्द्रियग्रामो युक्तचित्त इदं जगत्
आत्मनीक्षस्व विततमात्मानं मय्यधीश्वरे ||11-7-9||


ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम्
अत्मानुभवतुष्टात्मा नान्तरायैर्विहन्यसे  ||11-7-10||

सर्वभूतसुहृच्छान्तो ज्ञानविज्ञाननिश्चयः
पश्यन्मदात्मकं विश्वं न विपद्येत वै पुनः ||11-7-12||

सत्यस्य ते स्वदृश आत्मन आत्मनोऽन्यं
वक्तारमीश विबुधेष्वपि नानुचक्षे
सर्वे विमोहितधियस्तव माययेमे
ब्रह्मादयस्तनुभृतो बहिरर्थभावाः ||11-7-17||

अहमात्मान्तरो बाह्योऽनावृतः सर्वदेहिनाम्
यथा भूतानि भूतेषु बहिरन्तः स्वयं तथा ||11-15-36||


The following supports Dvaita:

त्रिगुणत्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः 

सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ 5-26-2 ॥ 


यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।
 योगेन दानधर्मेण श्रेयोभिः इतरैरपि ॥ 11-12-32 ॥


 सर्वं मद्‍भक्तियोगेन मद्‍भक्तो लभतेऽञ्जसा ।
 स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ 11-12-33 ॥


The following supports V.Advaita and Dvaita too:


धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।
 यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव तन्तुषु ॥ 9-9-8 ॥

मामेकमेव शरणमात्मानं सर्वदेहिनाम्
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ||11-12-15||

भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः
आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ||11-21-5||

परस्वभावकर्माणि न प्रशंसेन्न गहयेत् ।
 विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ 11-28-1 ॥



The following supports all views:

ओं नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ 6-9-33॥


दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ 6-9-34 ॥
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ 6-9-35 ॥_*
न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ 6-9-36 ॥
समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ 6-9-37 ॥_*
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात्सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ 6-9-38 ॥

ततो हरौ भगवति भक्तिं कुरुत दानवाः
आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे || 7-7-53 ||
दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः
खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः || 7-7-54 ||
एतावानेव लोकेऽस्मिन्पुंसः स्वार्थः परः स्मृतः
एकान्तभक्तिर्गोविन्दे यत्सर्वत्र तदीक्षणम्  || 7-7-55 ||


Namaste

Suresh